Day: May 6, 2022

A Poetic ConversationA Poetic Conversation



काव्यसंवादः – अनिकेतकुशाग्रकविमित्राय— महाचार्य्यः मनतोषः भट्टाचार्यः- कुशाग्रोऽनिकेतः कवीनां नवीनस्-स गीर्वाणवाण्या सुरम्यं सुपद्यम्।लिखित्वा समेषां बुधानां मनःसुसभायाञ्च राराज्यते काव्यकर्ता।।१।। अनेकं सुकाव्यं कवीनां सभायांस देशे विदेशे पठित्वा सदैव।विशिष्टासनञ्चाशु लब्ध्वा समेषांप्रधानः कविस्संशयो नास्ति केषाम्।।२।।