Month: September 2022

A Sanskrit Aarati for the DeviA Sanskrit Aarati for the Devi



देव्या आरात्रिकम् जयतु परा शक्तिः, जननि! जयतु परा शक्तिःतव चरणयोः सदा मे भवतु स्थिरा भक्तिःजयतु परा शक्तिः! (ध्रुवपदम्) श्रीविश्वेशविलासिनि श्रीपतिशक्तिपरे (जननि)श्रीवल्लभहृदयेश्वरि श्रीसौभाग्यवरे!जयतु परा शक्तिः! भैरवि दैत्यभयङ्करि भूतवेतालवृते (जननि)जय भवभवनभवानि शङ्करवामगते!जयतु

Pearls of verses on the DeviPearls of verses on the Devi



देवीसूक्तिमुक्तावली। नमश्चण्डिकायै॥ शरदागमे धरणीधरेन्द्रसुतापदाम्बुजसेवनान्निजलक्ष्यसाधनकर्मठः परिहाय भोगमनोरथम्।परमार्थचिन्तनतत्परो गिरिजाप्रदर्शितवीथिकांतपसा व्रजेद्विविधावरोधशिलां विभेद्य निरन्तरम्॥१ विबुधेशदिनेशनिशेशनुतं परमेशगणेशरमेशनुतंधरणीधरराजसुते सततं तव नौमि कृपामयि पादयुगम्।अपगाजलधौतविशुद्धपदं मलयाचलचन्दनलेपयुतंवनकण्टकविद्धपदं मृदुलं तव नौमि तपस्विनि पादयुगम्॥२ नवपद्ममृणालसुकोमलपाणिपुटे खरचण्डबलं त्रिशिखंशवभूमिविभूतिविलेपितभीमतनौ मणिमालकपालयुगम्।शिवचारणभूतपिशाचविहारविनोदितमञ्जुमुखं सुभगंतव देवि विरूपसुरूपमयीच्छविरेव शिवे हरतादशिवम्॥३

A Hundred Verses Dedicated to Devi Sarasvati (In Progress)A Hundred Verses Dedicated to Devi Sarasvati (In Progress)



श्रीशारदाशतकम् यां देवीं मुनयो वदन्ति परमं सच्चित्सुखं निर्जरंवाग्देवीं कवयश्च शुद्धमनसा भक्तादयश्चण्डिकाम्।गीर्वाणाः सुरभारतीं नृपतयो लक्ष्मीं च यां देवतांवाणी मे वदने सदा वसतु सा विद्याप्रदा शारदा॥१ जिस देवी को ऋषि सच्चिदानंद परब्रह्म,

To our Trad FriendsTo our Trad Friends



Addressed to the so-called “Trads” on social media: अये ट्रैडवीराः! अये ट्रैडवीरा! यतध्वं यतध्वंन वैज्ञानिकीमुन्नतिं वा सहध्वम्।अधोगामिनीं वृत्तिमास्थाय नूनंमहाकर्दमाक्रान्तवीथिं भजध्वम्॥१ न वो दूरवाणी न वो वायुयानंन वो भौतिकी यन्त्रविद्या कदाचित्।स्ववाचैव

Poetic InterdependencePoetic Interdependence



“शशिना च निशा”-इतिवत्- गुरुणा वटवो वटुभिश्च गुरुर् गुरुणा वटुभिश्च विभाति कुलम्। कलिभिर् भ्रमरा भ्रमरैश्च कलिः कलिभिर् भ्रमरैश्च विभाति वनम्॥१ कविना रसिका रसिकैश्च कविः कविना रसिकैश्च विभाति महः। हरिणा च रमा

Unusual ConversationsUnusual Conversations



लोकोत्तरवार्ताः कवि-शुक-संवादः कस्त्वं? व्याससुतोऽस्मि सर्वविदितो गीस्ते कथं? मञ्जुलातुण्डं कीदृगहो? यथा गणपतेर् वक्रं भृशं पिङ्गलम्।आहारो? वनिताधरोपमफलं धाम क्व? वेदान्वये,इत्थं निर्वचनीकृताः सुकवयः कीरेण मेधाविना॥१ तुम कौन हो? मैं तो जगद्विख्यात व्यास का

Pitri-Paksha: Remembering my AncestorsPitri-Paksha: Remembering my Ancestors



पितृपक्षे स्वपूर्वजवन्दना- पितामहः – प्रो॰ (डॉ॰) रामराजप्रसादः, PhD (London) पूर्वं जातो मगधभुवने शारदानुग्रहेणप्रज्ञा-मेधा-विनय-धनिको भौतिकीज्ञानविज्ञः।सौम्यो धीरः प्रखरमतिमान् छात्रवृन्दाभिवन्द्यः,आध्यानस्थो जयति नितरां रामराजप्रसादः॥१ पूर्व काल में मगध की धरती पर जन्मे, देवी सरस्वती

One-verse RamayanasOne-verse Ramayanas



एकश्लोकिरामायणसङ्ग्रहः- प्रसिद्धः- आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनंवैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।वालेर्निर्दलनं समुद्रतरणं लङ्कापुरीदाहनंपश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्॥१ (रामकर्णामृतम्) तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।योगी शान्तिसमायुक्त आत्मारामो विराजते॥२ (श्रीमच्छङ्कराचार्यप्रणीत आत्मबोधः) देवान् सान्त्वयते भुवि प्रभवते शैवं धनुर्भञ्जतेसीतामुद्वहते जनान् रमयते पित्रे वनं गच्छते।साधून्मोचयते कपीन् सुखयते लङ्केश्वरं संघ्नतेभक्तान्नन्दयते दशोद्यमकृते रामाय तस्मै नमः॥३ (श्रीनित्यानन्दमिश्रः) रामो दाशरथिर्जगाम विपिनं सत्यं पितू रक्षयन्भार्यामस्य

A Stotra Dedicated to Swami VivekanandaA Stotra Dedicated to Swami Vivekananda



नमस्कारात्मकं स्वामिविवेकानन्दवन्दनम्- (काश्मीरकमहाकविजगद्धरभट्टशैलीमनुसृत्य) This Stotra is written in the style of the 14th century Kashmiri poet Jagaddhara Bhatta (Stutikusumāñjali, Stotra 2). According to Kshemendra, the beauty of a short meter