Month: August 2022

SaṃskṛtāmṛtamSaṃskṛtāmṛtam



संस्कृतामृतम् (मध्यमादिसारङ्गरागनिबद्धगीतम्) सरलसंस्कृतं सरससंस्कृतंमधुरसंस्कृतं मृदुलसंस्कृतम्।गहनसंस्कृतं सुगमसंस्कृतंपठतु संस्कृतं संस्कृतामृतम्॥ (ध्रुवपदम्) भरतभूतले प्रान्तवादिभिःकलहपद्धतिः स्वीकृता कथम्।स्फुरदुपद्रवे राष्ट्रवर्त्मनिक्व तमिलं कुतः संस्कृतं तथा॥1 अरिकुलाङ्गने वित्तकामिनियवनतोषणे मञ्जुभाषिणि।यदि सुसंस्कृतः क्रोत्स्यति त्वयितव गतिस्तदा का भविष्यति॥2 भवतु भाषया वर्णजातिभिर्विबुधमण्डलं

śrībhārateśvarīstotramśrībhārateśvarīstotram



श्रीभारतेश्वरीस्तोत्रम् (श्रीमहिषासुरमर्दिनीस्तोत्रवत्) अयि गिरिराजकिरीटविभूषिणि वारिधिसेवितधौतपदेजनगणमानसधामविहारिणि काननशैलविहाररते।मुनिवरवन्दितसैन्यसुरक्षितदैन्यनिवारिणि पुण्यधरेजय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि देवनुते॥१ अयि नवकेशरकुङ्कुमरञ्जितदीप्तसमुन्नतभालधरेसुरतटिनीजलमौक्तिकहारसुशोभितकम्बुककण्ठतले।सुरभितपुष्पपरागपरिष्कृतपुष्करपल्लवपुञ्जपटेजय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि वीरनुते॥२ अयि यतियोगविवर्धिनि भोगविधायिनि लौकिकरोगहरेत्रिविधसमीरणवेल्लितवैदिकहोमजधूमसुवासरते।प्रतिकणिकालयवासरते सुविकासरते मृदुहासरतेजय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि लोकनुते॥३ अयि रघुवंशशिरोमणिपार्थिवपालितशाश्वतराष्ट्रधरेयदुकुलनाथकरच्युतमञ्जुलगोरसपानरसज्ञवरे।कुरुकुलसंयुगशौर्ययशोगुणसङ्घमहास्वनगानरतेजय जय