Day: September 21, 2022

One-verse RamayanasOne-verse Ramayanas



एकश्लोकिरामायणसङ्ग्रहः- प्रसिद्धः- आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनंवैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।वालेर्निर्दलनं समुद्रतरणं लङ्कापुरीदाहनंपश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्॥१ (रामकर्णामृतम्) तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।योगी शान्तिसमायुक्त आत्मारामो विराजते॥२ (श्रीमच्छङ्कराचार्यप्रणीत आत्मबोधः) देवान् सान्त्वयते भुवि प्रभवते शैवं धनुर्भञ्जतेसीतामुद्वहते जनान् रमयते पित्रे वनं गच्छते।साधून्मोचयते कपीन् सुखयते लङ्केश्वरं संघ्नतेभक्तान्नन्दयते दशोद्यमकृते रामाय तस्मै नमः॥३ (श्रीनित्यानन्दमिश्रः) रामो दाशरथिर्जगाम विपिनं सत्यं पितू रक्षयन्भार्यामस्य