देवीसूक्तिमुक्तावली। नमश्चण्डिकायै॥ शरदागमे धरणीधरेन्द्रसुतापदाम्बुजसेवनान्निजलक्ष्यसाधनकर्मठः परिहाय भोगमनोरथम्।परमार्थचिन्तनतत्परो गिरिजाप्रदर्शितवीथिकांतपसा व्रजेद्विविधावरोधशिलां विभेद्य निरन्तरम्॥१ विबुधेशदिनेशनिशेशनुतं परमेशगणेशरमेशनुतंधरणीधरराजसुते सततं तव नौमि कृपामयि पादयुगम्।अपगाजलधौतविशुद्धपदं मलयाचलचन्दनलेपयुतंवनकण्टकविद्धपदं मृदुलं तव नौमि तपस्विनि पादयुगम्॥२ नवपद्ममृणालसुकोमलपाणिपुटे खरचण्डबलं त्रिशिखंशवभूमिविभूतिविलेपितभीमतनौ मणिमालकपालयुगम्।शिवचारणभूतपिशाचविहारविनोदितमञ्जुमुखं सुभगंतव देवि विरूपसुरूपमयीच्छविरेव शिवे हरतादशिवम्॥३