प्रहेलिका_९



प्रहेलिका-९

तैलं क्रेतुं विपणिमगमत् कश्चिदन्येन सार्धं । १

विक्रेतारं “ तव कति सखे लीटराः सन्ति भाण्डे?”।२

पप्रच्छेत्थं स सपदि “चतुर्विंशतिः केवलं भोः।३

कापेक्षा ते कति तव सुहृदः ब्रूहि मामि”त्यवादीत् ॥४

“वाञ्छाष्टावेव मम सुहृदः मामकेच्छा समाना”।५

इत्युक्तः सः विकसितमुखः,”तर्हि शक्नोमि दातुं॥६

भोः पञ्चैकादशदशयुतत्रीणि मातुं कृतानि ।७  

पात्राणीमानि तव सविधे पूरयन्ति त्वदिच्छाम्” ॥८

उक्त्वेत्थं सः वितरण विधौ न्यस्तचित्तो बभूव।९

मूल्यं तैलस्य च समुचितं प्राप्य निष्ठः कृतार्थः।१०

खाद्यानां ते वितरणकला प्रत्यहं भासमाना ।११

कान्ते याचे वितरणविधिर्वर्ण्यतां तैलकस्य॥१२

—-

Leave a Reply

Your email address will not be published.

Related Post