सर्वं समञ्जसं भूयात्





मद्दन्तजातया सितवर्णधारया
जगदभवदतिपाण्डरम्।
आस्यात् करालया धूतया ज्वालया
सर्वत्र स‍ंप्रति दरम् ।।


रुचिराणि पुष्पाणि झटिति कथमुग्राणि
रूपाणि धारयन्ति ?
नेत्रशैत्यकराणि मङ्गलाध्वपराणि
पूर्वमासन् कियन्ति !


‍मनसि नरविसरेषु सपदि विदधानेषु
परिवर्तनं भीकरम्।
अहमपि न मौनेन तिष्ठामि ; वचनेन
परुषेण​ विध्याम्यरम्।।


अलमतिक्रोधेन विघ्नितविबोधेन​
भवतु सर्वं स्वे स्थले।
कुसुमं सुमायतां शान्तिर्निधीयतां
दृढतराऽवनिमण्डले।।


कमलेषु भासतां भ्रमरव्रजः; सतां
स्फुटगिरामहमाह्वये।
धीः स्थिरा ज्ञायतां द्युत्या विजीयतां
क्लेशस्तमःसंचये।।

Leave a Reply

Your email address will not be published.

Related Post