Author: Jagannatha S

सर्वं समञ्जसं भूयात्सर्वं समञ्जसं भूयात्



मद्दन्तजातया सितवर्णधारयाजगदभवदतिपाण्डरम्।आस्यात् करालया धूतया ज्वालयासर्वत्र स‍ंप्रति दरम् ।। रुचिराणि पुष्पाणि झटिति कथमुग्राणिरूपाणि धारयन्ति ?नेत्रशैत्यकराणि मङ्गलाध्वपराणिपूर्वमासन् कियन्ति ! ‍मनसि नरविसरेषु सपदि विदधानेषुपरिवर्तनं भीकरम्।अहमपि न मौनेन तिष्ठामि ; वचनेनपरुषेण​ विध्याम्यरम्।। अलमतिक्रोधेन विघ्नितविबोधेन​भवतु

अन्योक्तयः-२ एस्. जगन्नाथःअन्योक्तयः-२ एस्. जगन्नाथः



निबिडसुधाढ्यकुसुमद्रुमेष्व्अतिजड, मल्लकलहान् अले !स्थगयसि चेन्न परषट्पदैःकथय करोषि किमुपोषणम् ॥ शुकवदनाद् विगलिते फलेमुदित इवासि किल मूषिक !नभसि न काकमभिवीक्षसेकृतडयनं सुविहितस्मितम् ॥ खरनखरैर्निशितदन्तकैर् द्रुतगतिभी रभसलङ्घनैः।यदि हरिणो झटिति गृह्यते कथय हरे किमिदमद्भुतम् ॥

चतस्रः अन्योक्तयःचतस्रः अन्योक्तयः



कस्मिंश्चिद्दिने नजसलगेति छन्दोगतिरकस्मान्मयि स्फुरिता।तस्या नामधेयं “निजशीलिका” इति विहितं, लक्षणं च “नजसलगेन निजशीलिका” इति कृतम्। तस्यां निबद्धाश्चतस्रः अन्योक्तयोऽत्र दत्ताः। चतस्रः अन्योक्तयःएस्.जगन्नाथः १.वनभुवि हिंस्रदरजन्मभू-रवभवदम्भ, तव केसरिन् !भवति किमुग्रमहिषव्रज-स्फुरदुरुशृङ्गवलनैर्भयम् ? २.चटुलशरीर, कुरुतः स्फुटंबहुलभयेन