A Sanskrit Aarati for the Devi



देव्या आरात्रिकम्

जयतु परा शक्तिः, जननि! जयतु परा शक्तिः
तव चरणयोः सदा मे भवतु स्थिरा भक्तिः
जयतु परा शक्तिः! (ध्रुवपदम्)

श्रीविश्वेशविलासिनि श्रीपतिशक्तिपरे (जननि)
श्रीवल्लभहृदयेश्वरि श्रीसौभाग्यवरे!
जयतु परा शक्तिः!

भैरवि दैत्यभयङ्करि भूतवेतालवृते (जननि)
जय भवभवनभवानि शङ्करवामगते!
जयतु परा शक्तिः!

शुम्भनिशुम्भविमर्दिनि मधुकैटभदलनि (जननि)
धूम्रविरोचनशोषिणि गणनायकजननि!
जयतु परा शक्तिः!

कमलालयविनिवासिनि कमलाङ्गिनि कमले (जननि)
दुर्गे दुर्गतिहारिणि भवतारिणि विमले!
जयतु परा शक्तिः!

कुङ्कुम-कमल-सलिल-फल-गन्ध-दीप-धूपैः (जननि)
पूज्यते देवी विरञ्चि-हरि-हर-सुर-भूपैः!
जयतु परा शक्तिः!

सुरगुरु-सुरपति-सेवित-सुरतरु-सम-फलदे (जननि)
जय शुभदे बहुवरदे परामनन्दप्रदे!
जयतु परा शक्तिः!

जय मन्दार-विहारिणि केसरि-पति-वहने (जननि)
ब्रह्म-महिषि जगदीश्वरि शशिघण्टे गहने!
जयतु परा शक्तिः!

महिषासुर-विध्वंसिनि भक्ताभयकरणे (जननि)
इत्यनिकेत करुणां कुरु शरणे!
जयतु परा शक्तिः!

Leave a Reply

Your email address will not be published.

Related Post