Day: February 14, 2022

ārakṣaṇavaibhavamārakṣaṇavaibhavam



आरक्षणवैभवम् अनारक्षितलोकानामेका या प्रतिपालिका।कराभ्यां वृत्तिदात्रीं तां मेधां देवीमुपास्महे॥1 यत्रारक्षणरक्षिताः प्रतिपदं मेधाविहीना बलात्तत्रारक्षणभक्षिताः प्रतिपदं राज्येन मेधाविनः।साम्यव्याजहृताधिकारजनता यत्रास्ति तूष्णीं स्थितातद्दुःशासनपद्धतिं वयमहो सोढुं समर्थाः कथम्॥2 आरक्षणं कलौ कश्चिच्चिन्तामणिर् विधीयतेविगुणा यस्य संसर्गाद् भवन्ति गुणिनः