ārakṣaṇavaibhavam



आरक्षणवैभवम्

अनारक्षितलोकानामेका या प्रतिपालिका।
कराभ्यां वृत्तिदात्रीं तां मेधां देवीमुपास्महे॥1

यत्रारक्षणरक्षिताः प्रतिपदं मेधाविहीना बलात्
तत्रारक्षणभक्षिताः प्रतिपदं राज्येन मेधाविनः।
साम्यव्याजहृताधिकारजनता यत्रास्ति तूष्णीं स्थिता
तद्दुःशासनपद्धतिं वयमहो सोढुं समर्थाः कथम्॥2

आरक्षणं कलौ कश्चिच्चिन्तामणिर् विधीयते
विगुणा यस्य संसर्गाद् भवन्ति गुणिनः क्षणे॥3

शक्रासनं न वाञ्छन्ति ये चारक्षणजीविनः।
कालेन क्षीयते स्वर्ग आरक्षणं प्रवर्धते॥4

आरक्षणं भवेत्किञ्चिद्विचित्रं यन्त्रमुत्तमम्।
येन काम्यानि सिध्यन्ति निर्मेधस्य विना श्रमम्॥5

आरक्षणेन येषां तु पदस्थाः पितरः पुरा।
सर्वकारे पुनस्तेभ्यो कथमारक्षितं पदम्॥6

अनारक्षितपीठं यः प्राप्येच्छेदुन्नतिं जनः।
आरक्षणं पदोन्नत्यां वीक्ष्य रोदिति सत्वरम्॥7

आरक्षणासवं पीत्वा नेतारश्चाधिकारिणः।
सर्वोच्चपदमारुह्य मेधां मृद्गान्ति ते पुनः॥8

आरक्षणाध्वरे हुत्वा मेधां योग्यतया सह।
क्षेममिच्छन्ति राष्ट्रस्य मूढास्तेभ्यो नमो नमः॥9

नारक्षणसमो मन्त्रो नारक्षणसमं बलम्।
नारक्षणसमं मित्रं नारक्षणसमं धनम्॥11

न कश्चिद् रक्षणीयो वा देशे यत्रावशिष्यते।
तत्रैवारक्षणार्थाय युध्यन्ते कुटिला जनाः॥12

सर्वत्रारक्षिते देशे मेधाविद्रोहिभिर्जनैः।
अनारक्षितकारास्तु न शोभन्ते कदाचन॥13

आतिथ्यं सर्वकारस्य गृहीतुं कोऽत्र मन्दधीः।
आरक्षणं न याचेत कारागेहेष्वपि स्वकम्॥14

न्यायाधीशपदे दत्तं मन्त्रिणाऽऽरक्षणं यदा।
कारागृहे कदा तेन तद्व्यवस्था प्रदास्यते॥15

असाम्ये साम्यमारोप्य निर्मेधे योग्यतां तथा।
तिष्ठत्यारक्षणातङ्को भोगीव जनवक्षसि॥16

अहं कुलीनो न कुलाभिमानी
नारक्षणेनात्र कदापि धन्यः।
मेधाबलेनैव मया सभाया-
मारक्षितं तुच्छपदं स्वकीयम्॥17

न शिक्षणे, नैव च वृत्तिलाभे
स्पर्धासु कुत्रापि पदोन्नतौ वा।
आरक्षणालम्बनमस्तु हेतुर्
मेधाबलेनार्जितमानभाजाम्॥18

मेधां न सूते जठरेण माता
मेधा न जात्या जनिता कदाचित्।
अभ्यासमात्रेण परिश्रमेण
पात्रे स्वतो वै समुदेति मेधा॥19

वेदेषु मेधा हि सरस्वतीयं
लोकेषु मेधा करवृत्तिदात्री।
उपास्महे तां जननीं जगत्या
आरक्षणेनास्ति किमत्र कार्यम्॥20

Leave a Reply

Your email address will not be published.

Related Post