Saṃskṛtāmṛtam



संस्कृतामृतम्

(मध्यमादिसारङ्गरागनिबद्धगीतम्)

सरलसंस्कृतं सरससंस्कृतं
मधुरसंस्कृतं मृदुलसंस्कृतम्।
गहनसंस्कृतं सुगमसंस्कृतं
पठतु संस्कृतं संस्कृतामृतम्॥ (ध्रुवपदम्)

भरतभूतले प्रान्तवादिभिः
कलहपद्धतिः स्वीकृता कथम्।
स्फुरदुपद्रवे राष्ट्रवर्त्मनि
क्व तमिलं कुतः संस्कृतं तथा॥1

अरिकुलाङ्गने वित्तकामिनि
यवनतोषणे मञ्जुभाषिणि।
यदि सुसंस्कृतः क्रोत्स्यति त्वयि
तव गतिस्तदा का भविष्यति॥2

भवतु भाषया वर्णजातिभिर्
विबुधमण्डलं नो विभाजितम्।
द्विजकुलात्मजा वा द्विजेतरा
भजत मानवाः संस्कृतामृतम्॥3

वदति कोकिला पञ्चमे स्वरे
कदलिकातरौ वा कदम्बके।
प्रसरति प्रियं सार्वदेशिकं
मधुरकूजनं संस्कृतामृतम्॥4

सरलसंस्कृतं यो पठेन्नरः
समुपयाति वा योग्यतां शनैः।
प्रकृतमेधया यः सुसज्जितो
द्रुतमुपैति वा शास्त्रदक्षताम्॥5

सकलवाङ्मयास्वादनाय स
गुरुमुपेत्य वा शुद्धचेतसा।
पठतु संस्कृतं यत्नपूर्वकं
सकलसंशयादाशु मुच्यताम्॥6

पठितमेव नो संस्कृतं मया
गुरुगृहे कदाचित् सुसन्निधौ।
तदपि निर्झरी देवभारती
प्रवहति स्वके मानसाङ्गणे॥7

परमिहाभयो बालकः कविर्
विजयते सदा प्रौढसंसदि।
पठति सस्वरं काव्यमुत्सुको
गुणपरीक्षणं बाधते न तम्॥8

यदविलम्बितं सर्ववाक्पटो
वद कथं भवेत्संस्कृतोदयः।
सुगमभाषणं चेन्न संस्कृते
गहनचिन्तनं कः करिष्यति॥9

विषमवीथिका कण्टकाकुला
चरणयोस्तथा पाशबन्धनम्।
“अयि पदद्वयं गच्छ धावक”
भणति यो जनस्तं नमाम्यहम्॥10

परिचिता तु या पुष्पवल्लरी
फलति चेद्रसो रोचते भृशम्।
तदपि को नवां वीक्ष्य मञ्जरीं
मधुकरो रसं नैव पास्यति॥11

महिषपृष्ठतः काव्यकीर्तनं
कनकशृङ्गतस्तत्त्वदर्शनम्।
यदि पुरातनीं रीतिमिच्छति
पठतु संस्कृतं नान्यथा गतिः॥12

कविमनोमयं पुष्पमर्पितं
चरणयोर्हि ते भारतीश्वरि।
जडविषौषधं भेषजोत्तमं
जगति केवलं संस्कृतामृतम्॥13

तव कृपाजलं मुग्धकिङ्करो
मरुतृषाकुलो याचते कविः।-
अमृतसंस्कृतोत्कर्षपर्वणि
मम करेण किं कर्तुमीप्सितम्॥14

इति सम्पूर्णम्।

इदं प्रासङ्गिकं सरलसंस्कृतगीतं श्रीमद्भागवतान्तर्गतं गोपिकागीतमनुसृत्य दुर्लभे कनकमञ्जरी/शुद्धकामदा/विबुधवन्दिता-वृत्ते विरचितम्।

Leave a Reply

Your email address will not be published.

Related Post