काव्यसंवादः –
अनिकेतकुशाग्रकविमित्राय—
महाचार्य्यः मनतोषः भट्टाचार्यः-
कुशाग्रोऽनिकेतः कवीनां नवीनस्-
स गीर्वाणवाण्या सुरम्यं सुपद्यम्।
लिखित्वा समेषां बुधानां मनःसु
सभायाञ्च राराज्यते काव्यकर्ता।।१।।
अनेकं सुकाव्यं कवीनां सभायां
स देशे विदेशे पठित्वा सदैव।
विशिष्टासनञ्चाशु लब्ध्वा समेषां
प्रधानः कविस्संशयो नास्ति केषाम्।।२।।
असाधारणोऽयं सुकाव्यस्य सृष्टौ
किमेतं ह्यहञ्चाल्पबुद्धिस्सुपद्यम्।
लिखित्वास्य कुर्वे ह सम्माननं वा
स्तवं भाषणं साधु चेदस्मि मौनी।।३।।
धनार्थी कृपार्थी न मानाभिलाषी
यशोगेहवित्तादि(नो)कं कामयेऽहम्।
शुभार्थी सतां कामये सज्जनानां
सुसौख्यं कुशाग्रस्य मैत्रं सदैव।।४।।
कथाभिस्त्रुटिर्भाषया वै वचोभिर्-
यतो नाहमस्मि प्रसिद्धस्सुवाग्मी।
स एको न बन्धुर्विभाव्य त्रुटिं यो
हि गृह्णाति मैत्रं तथैवानिकेतः(तथासौ कुशाग्रः)।।५।।
विलोक्यात्मगेह(स्थ)स्य लोकस्य दुःखं
निजस्यापि दुःखी जनो वै सुलभ्यः (जनस्स्याच्च लभ्यः)।
परस्यापि मित्रस्य दृष्ट्वा तु दुःखं
स दुःखी भवेद्वै कुशाग्रोऽनिकेतः।।६।।
विधातः प्रसन्नोऽसि चेत्त्वन्तु दासे
मनस्तोषभट्टे कुशाग्राय तस्मात्।
यशोमानवित्तं प्रदाय प्रभूतं
कुरुष्वानिकेतं कुशाग्रन्तु धन्यम्।।७।।
कुशाग्रानिकेतः-
सतामाशिषा धन्यधन्योऽस्मि सूरे
भवच्छंशया वै कृतार्थीकृतोऽहम्।
नतोऽहं, पठित्वा भवत्काव्यमालां
मनस्तोषणं जायते नैव कस्य?॥८
महाचार्य्यः मनतोषः भट्टाचार्यः-
यदा वा समेषाम्भवेत्तुष्टिरिष्टा
न चेत्तस्य यस्मै मयेदन्तु पद्यम्।
कृतं हा भवेद्वेह तुष्टिस्तु मन्ये
प्रचेष्टा मदीया वृथा सर्वथैव।।९।।
कुशाग्र त्वमेवासि बन्धुर्वरेण्यो
धिया त्वं समेषाम्भवेस्त्वग्रगण्यः।
न पद्यैरहञ्चाल्पबुद्धिः कथं वा
प्रकुर्वे प्रशंसां तवाशेषबुद्धेः।।१०।।
कुशाग्रानिकेतः-
भवान् नाल्पबुद्धिः कवीनां पुरोधा
गुणज्ञानवृद्धः सुवाग्वैभवेशः।
ततो धारयित्वा भवत्काव्यदानं
नतास्ये विधास्येऽङ्घ्रियुग्मे प्रणामान्॥११
महाचार्य्यः मनतोषः भट्टाचार्यः-
कवीनां पुरोधा तु वाचा प्रलापश्-
चिरं सत्कवीनां ह्यहञ्चास्मि दासः।
भवेयं सुखी पृष्ठतश्चानुगामी
यशोभिश्च तेषां प्रभूणां यशस्वी।।१२ ।।
न मेधा न विद्या न भाषापटुत्वं
न वित्तं न गेहं सुरम्यं यशो वा।
ततः केन कस्मै यते चानुगत्यं
कवीशानुरागाल्लभे सर्वमिष्टम्।।१३ ।।
कुतस्त्वं कुतोऽहं कदा त्वं कदाहं
सभायां कवीनां भवावो न जाने।
धरायां कदाचित् कुतश्चिद्यदि स्यान्-
मयाथ त्वया मेलनं तत् सुखाय।।१४ ।।
कुशाग्रानिकेतः-
बहूनां भवेन्मध्यमो योऽपि कश्चिद्
बहूनां भवत्युत्तमः स्यात् स लोके।
अतो नाचिकेतप्रमाणेन वन्द्यो
भवान् कालिदासानुदासो मनस्वी॥१५
(“बहूनामेमि प्रथमो बहूनामेमि मध्यमः”)
महाचार्य्यः मनतोषः भट्टाचार्यः-
अहं नाचिकेतो भवेयन्तु कस्मान्-
न संसारमुक्त्यै यतेऽहं कदाचित्।
विना विद्यया ज्ञानमिष्टं लभे किं
ततस्सेवयाहं कवीनां प्रसन्नः।।१६।।