प्रहेलिका-८
कस्यचित् दुग्धविक्रेतुरासन् वै ग्राहकास्त्रयः ।
एकैकस्मै प्रदातव्याः चत्वारो लीटराः प्रगे ॥१॥
आस्तां तस्य सकाशे द्वे भिन्ने मापनभाजने ।
माति त्रीन् लीटरानेकमन्यं लीटरपञ्चकम् ॥२॥
नोपयुज्यान्यपात्राणि कथं वितरणं भवेत् ।
दुग्धवत्स्निग्धहृदये विचिन्त्य वद मत्प्रिये ॥३॥
—-