A Birthday Gift



जन्मदिवसोपहार-वृत्तान्तः-

दत्तं जन्मदिने मेऽद्य यावनं मद्यभाजनम्।
अप्रशस्तमिदं धर्म्यैरित्यविज्ञाय केनचित्॥१

सेव्या न धार्मिकैर् नूनं वारुणी कमलानुजा।
उपहारोऽपि सम्मान्यः प्रीत्याऽनीतो हितैषिणा॥२

त्रिशतेन तु तत्क्रीतं महार्हं मद्यभाजनम्।
पापभारान्न रोचन्ते सुराविक्रीणनक्रियाः॥३

न त्यक्तव्यं न पातव्यं न विक्रेतव्यमेव तत्।
किङ्कर्तव्यविमूढोऽहं तदा जातोऽस्मि चिन्तया॥४

ततः प्रत्यर्पणात्पूर्वं मधुशालेति काव्यतः।
पङ्क्तिमेकां प्रतिस्थाप्य प्रत्यक्षमिदमब्रवम्॥५-

पीत्वैतत् किं करिष्यामि रक्तं मे मदिरायते।
अतो दत्तमिदं पेयं पुनस्तस्मै मयार्पितम्॥६

Leave a Reply

Your email address will not be published.

Related Post