Appreciation for Shri Vatsa Deshraj Sharma



श्रीवत्सदेशराजजन्मदिवसे शुभानुशंसनम्-

पुण्ये हिमाचले क्षेत्रे कश्चिद् दैवज्ञपण्डितः।
देशराजोऽभवद् वत्सो धर्मज्ञो विनयी बुधः॥१

सर्वशास्त्रोपरण्ये यः शार्दूल इव निर्भयः।
सन्ततं चरति प्राज्ञो गुरोराज्ञाप्रसादतः॥२

प्रवासी ब्राह्मणो वन्द्यो देशदेशाटने रतः।
यत्र यत्र स संयाति विद्वद्भिस्तत्र पूज्यते॥३

पौरोहित्ये च निष्णातः कर्मकाण्डधुरन्धरः।
वार्ताहरो गुणी श्रीमान् देशराजो विराजते॥४

दैवज्ञचक्रचूडाख्यो लोकचिन्तामणिप्रभः।
अन्वेषणेन सम्प्राप्तो देशराजो महीयते॥५

ममापि जन्मचक्रं स वीक्ष्य विज्ञानचक्षुषा।
मार्गप्रदर्शनायैव जीवने फलमब्रवीत्॥६

पाराशरे भृगोः सूत्रे बृहज्जातकसञ्चये॥
यदुक्तं चान्यशास्त्रेषु प्रज्ञायां तेन रक्षितः॥७

संस्कृतोत्थानकार्येषु प्रवृत्तः कर्मठो वटुः।
विद्वत्सम्मेलनानां च सञ्चालको विशेषतः॥८

प्रवक्ता भूसुराणां स वैदिकाख्यगणाधिपः।
बहुभिर् गुरुभिर्मान्यो देशराजो विचक्षणः॥९

निष्ठया को न मोदेत तस्य संस्कृतसेवया।
शुभे जन्मदिने तस्मात् प्रेषयाम्यनुशंसनम्॥१०

Leave a Reply

Your email address will not be published.

Related Post