काव्यचौराय ते नमः।
कश्चिच्चोरयतीह वित्तमपरो धान्यं भुवं काञ्चनं
मानं गौरवशालिनां हरति वा दुष्टः सतां साधुताम्।
सर्वस्वं यमकिङ्करस् तनुभृतां देहान्तकालागतः
क्षन्तव्यः करुणामयेन सकलो नो काव्यचौरो मया॥१
अदत्तानामुपादानं दशास्यप्रथमं शिरः।
एकास्याय दशास्याय काव्यचौराय ते नमः॥२
रावणो जानकीहर्ता स्तेनोऽयं शब्दसम्पदाम्।
चौरेश्वराय चौराय काव्यचौराय ते नमः॥३
काव्यचौर समागच्छ काव्यं चोरयितुं मम।
वचसा लक्ष्यते यद्यन्मनसा मे निगूहितम्॥४
काव्यचौर नमस्तुभ्यं सर्वचौरशिरोमणे।
प्रभूतं मे धनं पार्श्वे कदाऽगत्य हरिष्यसि?॥५
मम काव्यकौशलसम्पदं हरतीह तस्करवृत्तितः
प्रणमामि तं मतिवर्जितं कणशाकलं लभते न सः।
पदवाक्यभावगुणध्वनिप्रमनःस्फुरद्रमणीयता
विलसन्ति मे रसिकानने रसकानने न खरानने॥६
साधु