परमानन्दलहरी-
किमानन्दो नाम प्रभवति कुतः केन विधिना
कदाचित् केषाञ्चित् कथमनुभवस्यैकविषयः।
इति प्रश्ने मातर्मम समुदिते चित्तपटले
स्तवारम्भो जातस्तव च परमानन्दलहरि॥१
न मे चक्षुर्दिव्यं न च समवलम्बोऽपि तपसां
न विज्ञानस्तम्भः पुनरपि न भक्तिर्दृढतरा।
परं दृष्टा स्थित्वा तव करुणया जीवनतटे
जगत्पारावारे स्फुरितपरमानन्दलहरी॥२
दृशा रूपं वाण्या यदि न तव बोध्या गुणगणा
धिया धार्या केन त्वमखिलमनोऽतीतपरिधिः।
हृदिस्था भूतानां सततमनुभूता तदपि ते
स्रवन्तीयं काचिज्जननि परमानन्दलहरी॥३
विधेरानन्दस्त्वं भुवनरचनाशक्तिरमिता
हरेरानन्दस्त्वं गहनतरनिद्रास्थितिमयी।
शिवानन्दो भूत्वा त्वमथ रमसे लास्यसमये
चिदाकाशे नित्योल्लसितपरमानन्दलहरी॥४
शिवः शक्त्या हीनो भवति गतसत्त्वः शव इव
त्वया युक्तो मातर्भजति शिवसत्तामपि शवः।
विभेदं जानीमः कमपि न तयोर्देवि शिवदे
विना त्वत्सायुज्यं त्वममृतपरानन्दलहरी॥५