शिवताण्डवतालिका-
(अस्मिन् पुस्तके शिवताण्डवस्तोत्रस्य मदीयः समवृत्तपद्यानुवादः प्रकाशिता।)
प्रशस्तिरूपा अष्टपदी प्रस्तूयते-
(अष्टपदी – १६/यति/१२।प्रथमवारमेका अष्टपदी रचिता मया।बुधजनकृपाकटाक्षमपेक्ष्यते।)
शिवताण्डवतालिकानिनादः।
देवभूतगणनन्दिकरस्थल-समुदितकलकलनादः॥१
ध्वनिततुमुलरवविलसितपरिकर-विलुलितगिरिकैलासः।
विविधवाक्कुसुमसुरभिविनोदित-नगपतिसुतानिवासः॥२
निनदितडिण्डिमभेरिपटहमधु-वीणाशङ्खमृदङ्गः।
संस्कृताङ्ग्लनिजराष्ट्रभारती-स्वरितमहानटरङ्गः॥३
प्रमुदितसुतवरगजमुखषण्मुख-मृदुपदयोजनघोषः।
सहितयक्षगन्धर्वसिद्धमुनि-भृङ्गिशृङ्गिनिर्घोषः॥४
क्वणितपादतलनूपुरसमुदय-चलितचराचरलोकः।
धिमितिधिन्धिमितिमुरजवरध्वनि-विगलितनतजनशोकः॥५
विजितमदनरथगतिघनकानन-सुविहितदिव्यविलासः।
प्रेतभूतवेतालयोगिनी-वलयितमृडमुखहासः॥६
स्रुतरजनीकरशीतलशीकर-शमितशम्भुगलदेशः।
उदिततडिच्छवितिमिरसमावृत-सजलजलदपरिवेषः॥७
प्रसृतरसिकजनचित्ततरङ्गित-शिवपदपरमानन्दः।विनतकुशाग्रकविप्रतिवेदित-सहृदयनित्यानन्दः॥८