Day: October 9, 2022

Poetic Response to Audrey Truschke of Rutgers UniversityPoetic Response to Audrey Truschke of Rutgers University



तमिला न हिन्दवः? आदिशङ्करमठाभिपालिताःपाण्ड्यचोलनृपवंशशासिताः।भक्तिमार्गजनिभूमिसम्भवाश्चित्रमत्र तमिला न हिन्दवः॥१ शैववैष्णवमतानुरागिणःशाक्तपीठपरमानुयायिनः।जानकीदयितसेतुचारिणश्चित्रमत्र तमिला न हिन्दवः॥२ रङ्गनाथचरणाब्जसन्नताविश्वनाथपुरतीर्थगामिनः।दिव्यदेशभुवनाधिवासिनश्चित्रमत्र तमिला न हिन्दवः॥३ संस्कृताध्ययनशीलकोविदावेदपाठपठनादिनिष्ठिताः।रामनामनिरताश्च धार्मिकाश्चित्रमत्र तमिला न हिन्दवः॥४ श्रीचिदम्बरनटाधिनायका-ङ्घ्रिप्रसूनरसलुब्धषट्पदाः।द्राविडास्त्रिदशवाग्विशारदाश्चित्रमत्र तमिला न हिन्दवः॥५ श्रीघटोद्भवमुनीन्द्रनिर्मितंशब्दशास्त्रमवलम्ब्य पूर्वतः।जल्पने तमिलभाषया रताश्चित्रमत्र तमिला न

On Śarat PūrṇimāOn Śarat Pūrṇimā



रूपं ते रतिनाथबाणनिहता ज्योतिर्विदो गोचरंसौन्दर्यं कवयश्च लाञ्छनमहो पश्यन्ति दोषेक्षणाः।वीक्षन्ते च खगोलशास्त्रनिपुणाः शोधस्थलं त्वद्वपुःशम्भोर्मस्तकभूषणं सितरुचे मत्वा भजे त्वामहम्॥१ कामदेव के बाणों से आहत हुए जन आपके रूप को, ज्योतिषी आपके गोचर