तमिला न हिन्दवः?
आदिशङ्करमठाभिपालिताः
पाण्ड्यचोलनृपवंशशासिताः।
भक्तिमार्गजनिभूमिसम्भवाश्
चित्रमत्र तमिला न हिन्दवः॥१
शैववैष्णवमतानुरागिणः
शाक्तपीठपरमानुयायिनः।
जानकीदयितसेतुचारिणश्
चित्रमत्र तमिला न हिन्दवः॥२
रङ्गनाथचरणाब्जसन्नता
विश्वनाथपुरतीर्थगामिनः।
दिव्यदेशभुवनाधिवासिनश्
चित्रमत्र तमिला न हिन्दवः॥३
संस्कृताध्ययनशीलकोविदा
वेदपाठपठनादिनिष्ठिताः।
रामनामनिरताश्च धार्मिकाश्
चित्रमत्र तमिला न हिन्दवः॥४
श्रीचिदम्बरनटाधिनायका-
ङ्घ्रिप्रसूनरसलुब्धषट्पदाः।
द्राविडास्त्रिदशवाग्विशारदाश्
चित्रमत्र तमिला न हिन्दवः॥५
श्रीघटोद्भवमुनीन्द्रनिर्मितं
शब्दशास्त्रमवलम्ब्य पूर्वतः।
जल्पने तमिलभाषया रताश्
चित्रमत्र तमिला न हिन्दवः॥६
रामचन्द्रकरुणानिधिप्रिया
रामदासमणिशङ्करास्थिताः।
मोहिताश्च ललितास्यपङ्कजे
चित्रमत्र तमिला न हिन्दवः॥७
सङ्गमाख्यमहनीयवाङ्मये
धर्म एव निहितः पदे पदे।
तं निषिध्य मृगयस्व साम्प्रतं-
चित्रमत्र तमिला न हिन्दवः॥८
रावणोऽपि यदि वोऽस्ति पूर्वजः
सोऽपि संस्कृतपरायणोऽभवत्।
मैथिली च वचसो भयान्विता
यस्य, तर्हि तमिलाश्च हिन्दवः॥९
दैत्यवंशतनया हि पूर्वजाः
काश्यपा जगति विश्रुता द्विजाः।
सन्तु वो यदि, न तर्हि संशयो
नूनमत्र तमिलाश्च हिन्दवः॥१०
हिन्दुरेव न हि हिन्दुरस्ति चेत्
को भवेदिह च हिन्दुमानवः।
श्रीनिकेतभृतकानिकेतनः
पृच्छति – क्व तमिला न हिन्दवः॥११
The word द्राविड is more appropriate for Tamil in Sanskrit. However, the word तमिल is used in deference to the popular convention and for metrical reasons.