अन्योक्तयः-२ एस्. जगन्नाथः



निबिडसुधाढ्यकुसुमद्रुमेष्व्
अतिजड, मल्लकलहान् अले !
स्थगयसि चेन्न परषट्पदैः
कथय करोषि किमुपोषणम् ॥

शुकवदनाद् विगलिते फले
मुदित इवासि किल मूषिक !
नभसि न काकमभिवीक्षसे
कृतडयनं सुविहितस्मितम् ॥

खरनखरैर्निशितदन्तकैर्
द्रुतगतिभी रभसलङ्घनैः।
यदि हरिणो झटिति गृह्यते
कथय हरे किमिदमद्भुतम् ॥

न चमरपुच्छ तव जायते
श्रमलव आशुतरलङ्घनैः।
परमिह तानि परिपश्यतो
मम हृदि संभवति विस्मयः॥

Leave a Reply

Your email address will not be published.

Related Post