चतस्रः अन्योक्तयः



कस्मिंश्चिद्दिने नजसलगेति छन्दोगतिरकस्मान्मयि स्फुरिता।तस्या नामधेयं “निजशीलिका” इति विहितं, लक्षणं च “नजसलगेन निजशीलिका” इति कृतम्। तस्यां निबद्धाश्चतस्रः अन्योक्तयोऽत्र दत्ताः।

चतस्रः अन्योक्तयः
एस्.जगन्नाथः

१.वनभुवि हिंस्रदरजन्मभू-
रवभवदम्भ, तव केसरिन् !
भवति किमुग्रमहिषव्रज-
स्फुरदुरुशृङ्गवलनैर्भयम् ?

२.चटुलशरीर, कुरुतः स्फुटं
बहुलभयेन भरितां दृशम्।
लघुकरिपोत! पितरौ त्वयि
स्थपुटितभूमिचलनोत्सुके॥

३.कपिनिवहेन हरिणो दृढं
जनयतु सख्यमटवौ चरन्।
हरिविषयां झटिति चीत्कृतिं
विटपिगतेन परिमुञ्चता॥

४.खग ! वरकाष्ठचयनश्रमैर्
विरचितनीड, किल दृप्यसि।
निजमतिमेव बहु मानयन्
परखगबुद्धिमविचारयन्॥

Leave a Reply

Your email address will not be published.

Related Post