अभयाभ्यर्थनस्तवः



अभयाभ्यर्थनस्तवः

वासुदेव जगन्नाथ गोकुलेश कृपानिधे।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥१

देवकीशोकसिन्धूर्म्यां कंसनक्रोद्धतार्णवे।
त्वमेव तरणिः कृष्ण त्वामहं शरणं गतः॥२

त्वमेको गजराजस्य शरण्यो ग्राहदंशतः।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥३

त्वमेको भुवने नाथ भक्तानां भयनाशकः।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥४

त्वमेको मम गोविन्द शरणागतवत्सलः।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥५

निधाय त्वामहं चित्ते कुतो मे भयकारणम्।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥६

पीत्वा नामामृतं यायाद् देहयात्रा दिने दिने।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥७

यन्नामकीर्तनात्सर्वे भूतप्रेतनिशाचराः।
पलायन्ते द्रुतं सोऽयं कृष्णोऽक्षिविषयो मम॥८

स्वपादाम्बुजशय्यायां योगनिद्रां प्रदेहि मे।
निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥९

Leave a Reply

Your email address will not be published.

Related Post