महाभारतशिक्षापञ्चकम्



धर्मोपदेशको राजा विप्राः शस्त्रोपधारिणः।
लोकास्तत्र प्रवर्धन्ते युध्यन्ते च परस्परम्॥१

जन्मनान्धो नृपो यत्र राज्ञी स्वेच्छान्धचारिणी।
बधिरा बाला बली शत्रुस्तत्र नाशो न संशयः॥२

न्यासे धर्मो बले धर्मो दण्डे धर्मो धृतस्तथा।
येन तद्धृतराष्ट्रस्य राष्ट्रेऽधर्मः समाहितः॥३

हरिर्हरति यच्चित्तं तच्चित्तं सकलं हरेत्।
ततः कृष्णायते पार्थः कृष्णानुग्रहतोऽर्जुनः॥४

किं कुर्वन्ति ग्रहास्तस्य गृहीतः केशवेन यः।
तस्मान्नवग्रहेभ्योऽपि बली कृष्णो महाग्रहः॥५

Leave a Reply

Your email address will not be published.

Related Post