ते हि मे दिवसा गताः



मम कोशे कञ्चुकस्य मध्वाशैः पृथुलीकृते ।  

मित्रैस्संपीड्यमानस्य तानदत्वा प्रधावतः॥

जनन्यामाह्वयन्त्यां मां दुग्धपानाय नैकशः।

गोलीक्रीडानिमग्नस्य रुष्टां तां कुर्वतो तदा ॥

ममानुकुर्वतस्तातं वदनक्षौरकर्मणि ।

फेनदिग्धमुखस्यापहसितस्याम्बया भृशम् ॥

भ्रात्रा जितस्य क्रीडायां रुदतोऽश्रूणि मुञ्चतः।

मात्रा समाश्वासितस्य ते हि मे दिवसा गताः ॥ १ ॥

ईर्ष्यया गणिते दक्षमुद्दिश्य सहपाठिनम् ।   

मिथ्यारोपं कृतवतो गुरुणा दण्डितस्य च॥ 

फलचौर्यकृतौ सायमुद्यतस्याम्रनिष्कुटे ।

मम पित्रैव दृष्टस्य ताडितस्य च निर्दयम् ॥

पश्यन्तीनां बालिकानां कर्तुम् धृत्या प्रलोभनम् ।

वेगदीर्घीकृताङ्गस्य नद्यां प्लवनकर्मणि ॥

ग्रीष्मावकाशे संप्राप्ते निरतस्य दिवा सदा ।

तरुवानरखेलायां ते हि मे दिवसा गताः ॥ २ ॥

_ _ _ _

Leave a Reply

Your email address will not be published.

Related Post