Rakṣaṇīyāstu Hindavaḥ



रक्षणीयास्तु हिन्दवः

अस्माकं भारतं राष्ट्रं यस्य धर्मः सनातनः।
इदानीमैक्यभावेन हिन्दुस्थानं समुच्यते॥1

यत्र यत्र स्वदेशेऽस्मिन् हिन्दूनां पतनं भवेत्।
आरभ्यते हि देशस्य तत्र तत्र विभाजनम्॥2

यत्र सङ्ख्याबलं हिन्दोः संज्ञाबलं च मानसे।
तत्र खण्डयितुं राष्ट्रं शक्नुवन्ति न वैरिणः॥3

अहो राष्ट्रस्य दुर्भाग्यं यत्र सर्वत्र हिन्दवः।
यवनाक्रान्तकालेऽपि युध्यन्ते ते परस्परम्॥4

काश्मीरे केरले वङ्गे पञ्जाबे कामरूपके।
यत्र हिन्दुः पराभूतो नाशमभ्येति भारतम्॥5

यत्र मल्लापुरे गावो रक्षिता नैव शौनिकात्।
वर्धन्ते तत्र वर्षासु शिलीन्ध्रमिव वैरिणः॥6

यत्र भाग्यपुरे केचिद् रजाकरस्य वंशजाः।
वर्धन्ते स्वप्नलोकेऽपि तत्र हिन्दुर्न रक्षितः॥7

यत्र पञ्जाबदेशे वा ख्रीष्टीया निर्भयं रताः।
धर्मान्तरणकार्येषु तत्र शान्तिर्न शाश्वती॥8

यदा हिन्दुर्न शत्रुभ्यः पालनीयो विशेषतः।
तदा किं रक्ष्यते देशे नदीशैलवनालये॥9

म्लेच्छाक्रान्तवसुन्धरामघदलैर्दिक्कुञ्जरान् निर्जितान्
मालिन्यं सकलासु दिक्षु सुरभेर्वंशं खलैः पीडितम्।
निःशङ्कं ग्रहणं विधोर्जडतया भारादनन्तं नतं
पश्यन्नावतरेत् कथं हरिरहो हा हन्त नष्टा वयम्॥10

1 thought on “Rakṣaṇīyāstu Hindavaḥ”

Leave a Reply

Your email address will not be published.

Related Post