Presenting a Sanskrit Stotra dedicated to Sri Chitragupta and simultaneously documenting a fragment of the history, legends, and traditions of the Kayastha community:
श्रीचित्रगुप्तभुजङ्गम्-
सदा येन जीवैः कृतं कर्म चित्रं
भवेद् गोपितं धर्मराजस्य राज्ये।
व्यवस्थापिता तत्कृते लेख्यशाला
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१
स्थिता लेखनी दक्षिणे यस्य हस्ते
मसीपात्रमेवास्ति वामे करे च।
कटौ राजते मेखलाबद्धखड्गो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२
पुरा ब्रह्मचित्तेऽभवद् यस्य सत्ता
ततो धर्मलोकेऽभवद् यस्य राज्यम्।
पुनः कायदेशेऽभवद् यस्य वासो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥३
नियुक्तो विधात्रा यमस्यालये यः
सतां पापिनां पुण्यपापाभिलेख्ये।
नृणामिन्द्रियातीतविज्ञानचक्षुर्
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥४
सदा देवयज्ञे द्विजानां हविर्भुक्
सदा श्राद्धकर्मण्युपास्यस् तिलार्घ्यैः।
तथा लौकिके यः प्रकल्पेऽर्चनीयो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥५
महाबाहुमम्भोजनेत्रं विशालं
मनोज्ञं सुपीताम्बरं कृष्णवर्णम्॥
शशाङ्काननं कम्बुकण्ठं प्रशान्तं
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥६
अकस्माद् यदा केतुना पीडिताः स्युर्
जपेयुस्तदा मानवा यस्य मन्त्रम्।
ग्रहस्य प्रशान्त्यै पुराणोपदिष्टं
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥७
सुता यस्य कायस्थवंश्याः प्रसिद्धाः
कलाकाव्यवाणिज्यमन्त्रित्वदक्षाः।
कुशाग्रीयबुद्ध्यान्विताः कर्मनिष्ठा
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥८
प्रजा येन सृष्टा धरण्यां विशिष्टा
विधेराज्ञया लौकिकाचारविज्ञाः।
कुले यस्य सन्तो महान्तोऽपि जाता
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥९
नृपो येन सौदासनामा स्वभक्तः
पुरा रक्षितः कालदण्डप्रहारात्।
मतं पूज्यते यस्य लोकान्तकेन
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१०
ततः कार्तिके शुक्लपक्षे द्वितीये
समाराधिता यस्य मूर्तिर्वरेण्या।
जलार्घ्यैः फलैर्गन्धपुष्पोपहारैर्
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥११
पुनश्चैत्रमासे तिथौ पूर्णिमायां
जयन्त्यां निजायां सुतैर्भक्तवृन्दैः।
परो लेखकेशश्च यो वन्दनीयो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१२
भृगुस्वामिना क्षत्रसंहारकाले
पुरा चन्द्रसेनस्य भार्या सगर्भा।
समाशिश्रिये यस्य धर्मं शरण्यं
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१३
(प्रेरणा – स्कन्दपुराणे रेणुकामाहात्म्ये चन्द्रसेनीयकायस्थोत्पत्तिः।)
उदीच्योचितां वेशभूषां दधानं
द्वितीयं रविं तेजसा भासमानम्।
यमामात्यमुख्यं स्वमेधासमृद्धं
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१४
(प्रेरणा – विष्णुधर्मोत्तरपुराणे चित्रगुप्तवर्णनम्।)
अयोध्यापुरी पालिता यस्य पूर्वं
सुवास्तव्यवंश्यैः सुतैर्धर्मशीलैः।
नृपैर् गुप्तकालात्परं विक्रमेण
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१५
(प्रेरणा – “अयोध्या का इतिहास” इति स्वनामख्यातपुस्तकम्)
विवेकाम्बुधिर् नित्यमानन्दरूपो
यतीन्द्रो नरेन्द्रो नृणां सिंहभूतः।
कुले यस्य जज्ञे पुरोगः स यूनां
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१६
(प्रेरणा – “Reminiscences of Swami Vivekananda”)
कुले यस्य राजेन्द्रनामा प्रसादो-
ऽभवद् देशरत्नाख्यराष्ट्राधिपालः।
सुधीः सौम्यमूर्तिः सतां शीलधन्यो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१७
पुनः शास्त्रिवर्यो हि मन्त्री प्रधानो-
ऽभवत् कर्मठो यस्य वंशे स्वबालः।
दृढः सङ्कटे राष्ट्रनेता प्रवीरो
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१८
रणे रक्तदानेन दासत्वमुक्तिं
सदा घोषयन् बाहुमुत्थाप्य धीरः।
सुभाषोऽभवद् यस्य वंशे सुयोद्धा
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥१९
स्वदेशैक्ययज्ञे विशेषाधिकारा
हुताः स्वेच्छया यस्य वंश्यैर् निमेषात्।
न चक्रावरोधः कृतो वा कदाचिद्
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२०
(चक्रावरोधः=“चक्का-जाम” बन्द/हड़ताल)
यदाऽऽरक्षणस्यास्तु चर्चा स्वदेशे
तदा नेतृभिर् दृष्टमोहं विहाय।
विरोधे स्थिता वंशजा यस्य सर्वे
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२१
सदा मेधया विद्यया जीवितेन
न वाऽऽरक्षणाय प्रसार्य स्वहस्तौ।
पदं यस्य पुत्रेण लब्धं कदाचिद्
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२२
करे यावदर्थप्रदा लेखनीयं
मसीबिन्दुराभूषणं चाऽङ्गुलीनाम्।
न भिक्षाटने यस्य पुत्राः प्रवृत्ता
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२३
कुतश्चित्रवंशस्य गाथा विशाला
कुतो मे ससीमा पुनः शब्दराशिः।
तथाप्यञ्जलिं मस्तके सन्निधाय
भजे तं विचित्रं प्रभुं चित्रगुप्तम्॥२४
कदा स्खलद्गिरा स्वपूर्वजस्य कीर्तिमुज्ज्वलां
प्रगातुमुद्यतो भवेयमद्वितीयगौरवम्।
प्रगल्भसंस्कृतेन गुम्फितां स्रजं स्तवात्मिकां
समर्पयेयमत्र चित्रगुप्तपादपङ्कजे॥२५