Sūrya Suprabhātam (Part 2)



श्रीसूर्यसुप्रभातम्-

-द्वितीयं प्रभातम्-

माता तवादितिरपि प्रविलोक्य कान्तं
सन्ध्याविधानरतमम्बरगाङ्गतीरे।
त्वामादिदेवमवबोधयितुं प्रवृत्ता
तस्मादुदेहि सवितस्तव सुप्रभातम्॥१

उन्मील्य नेत्रयुगलं जगदेकचक्षुर्-
लोकान्धमोहतिमिरं हर सर्वतोऽपि।
त्वं भूर्भुवःस्वरनुपालनतत्परः स्यास्-
तस्मादुदेहि सवितस्तव सुप्रभातम्॥२

देवाधिराजनतमौलिवदान्यपाणे
राजाधिराजमुकटार्चितपादपीठ।
सिद्धाधिराजपठितस्तुतिभिः प्रसन्न
तस्मादुदेहि सवितस्तव सुप्रभातम्॥३

निद्रा कुतस्तव विभो शतकोटिरश्मे
तन्द्रा न ते विचरणे श्रुतयो वदन्ति।
मायामयीं शिथिलतां परिहाय सद्यस्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥४

नैवेद्यमस्तु किमिदं तव रश्मिरेकः
सर्वं तमस् त्रिजगतां कवलीकरोति।
भोक्तुं तथापि कदलीफलनारिकेला-
नुत्तिष्ठ मद् ग्रहपते तव सुप्रभातम्॥५

हे विश्वतारण चराचरलोकदीप
हे विश्वभावन सदा श्रितभक्तपाल।
संसारघोरतमसो मम रक्षणाय
तस्मादुदेहि सवितस्तव सुप्रभातम्॥६

जेतुं पुरा दशमुखं रघुवंशनाथो
युद्धे पुराणपुरुषं स्वकुलेष्टदेवम्।
त्वामार्चयत् स्तववरेण वसिष्ठशिष्टस्
तत्स्तोत्रपाठविधिना तव सुप्रभातम्॥७

कुन्तीसुतस्य विपिने हतवैभवस्य
षष्ठीव्रतेन सलिलाञ्जलिनैव पूर्वम्।
तुष्टोऽभवस्त्वमददाः क्षयहीनपात्रं
प्रीतस्तथैव भव मे तव सुप्रभातम्॥८

ये द्वापरे युधि हताः कुरुभूमिमध्ये
त्वामद्य ते दिवि कृताञ्जलयो नमन्ति।
त्वन्मण्डलं च परिवेष्ट्य सुवीरलोकास्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥९

मार्तण्डमन्दिरतले तु पुनस्त्वदीयं
काश्मीरधाम्नि तव भक्तजनाः प्रवीराः।
आशासते विमलदर्शनपुण्यलाभं
तस्मादुदेहि सवितस्तव सुप्रभातम्॥१०

इति श्रीकुशाग्रकविविरचिते श्रीसूर्यसुप्रभाते दशश्लोकात्मकं द्वितीयं प्रभातम्।

Leave a Reply

Your email address will not be published.

Related Post