Sūrya Suprabhātam (Part 3)



श्रीसूर्यसुप्रभातम्-

-तृतीयं प्रभातम्-

आकर्ण्य नागरजनः स्वगवाक्षपार्श्वे
गीतं यदत्र चटुला चटिका विरौति।
प्रत्यूषकालमनुतर्कयति प्रमुग्धस्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥१ 

गावः सवत्सवृषभाश्चरितुं निशान्ते
गोपालबालसहितास्तृणपत्रकाणि।
पूर्वावलोकनपरा विपिनं प्रयातास्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥२ 

शिष्यान् प्रबोधयितुमद्य गुरुर्गुरूणां
छेत्तुं समस्तहृदयस्थवितर्कजालम्।
व्याख्याति मौनवचनं शिवयोगमूर्तिस्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥३ 

पुष्पप्रचायसमये हृदये वटूनां
कल्पप्रसूनमणिसञ्चयनानुभूतिम्।
लोकोत्तरां समवलोकय वाटिकायां
तस्मादुदेहि सवितस्तव सुप्रभातम्॥४ 

सर्वे ग्रहा नभसि बद्धकराः सचन्द्राः
स्वोपग्रहैश्च विबुधैः सह तारकाभिः।
प्रत्यागतास्त्वनुचरास् तव वन्दनार्थं
तस्मादुदेहि सवितस्तव सुप्रभातम्॥५ 

आनुष्टुभं च बृहती जगती च पङ्क्तिस्
त्रिष्टुप् तथोष्णिगजरा च विराडपूर्वः।
गायन्ति तेऽमर यशो विविधैर्वचोभिर्
गायत्र्युपास्य सवितस्तव सुप्रभातम्॥६ 

निर्धारणं श्रुतिपदार्थसमुच्चयानां
मीमांसकैस्तु विनिशम्य शुका विदग्धाः।
नित्यं रटन्ति सदने शृणु कूजितं तैस्
तस्मादुदेहि सवितस्तव सुप्रभातम्॥७

वासन्तपुष्पमकरन्दरसं निपातुं
भृङ्गास् तृषार्तनयना उदयाचले त्वाम्।
संवीक्ष्य सन्तु मुदिताः कलिकासहायं
तस्मादुदेहि सवितस्तव सुप्रभातम्॥८

दिव्यं प्रसादमधुना तव दर्शनस्य
षष्ठीव्रतस्थजनताः प्रणताः लभेरन्।
सर्वान्नपानरहिताश् चिरकालतस्ते
तस्मादुदेहि सवितस्तव सुप्रभातम्॥९ 

*मूलस्थले तव पुरातनपुण्यतीर्थे
भग्नावशिष्टसुरमण्डपखण्डमात्रम्।
त्वत्कीर्तिगानमनुघोषयितुं सजीवं
तस्मादुदेहि सवितस्तव सुप्रभातम्॥१० 

इति श्रीकुशाग्रकविविरचिते श्रीसूर्यसुप्रभाते दशश्लोकात्मकं तृतीयं प्रभातम्।

*मूलस्थल=मूलस्थान=मूल्तान, वर्तमान पाकिस्तान

Leave a Reply

Your email address will not be published.

Related Post