Sūrya Suprabhātam (Part 4)



श्रीसूर्यसुप्रभातम्-

-चतुर्थं प्रभातम्-

(विनोक्तिप्रभातम्)

जलदो न विना रविणा जलदः
सुखदो न विना रविणा च शशी।
वरदा न विना रविणा धरणी
रविरेव ममास्तु सदा शरणम्॥१

तरवो न विना रविणा फलदाः
सलिलं न विना रविणा रसदम्।
ऋतवो न विना रविणा प्रियदा
रविरेव ममास्तु सदा शरणम्॥२

जलधिर्न विना रविणा धनदः
कमला न विना जलधिं जनिता।
मधुहा न विना कमलां मुदितो
रविरेव ममास्तु सदा शरणम्॥३

विबुधो न विना रविणा रुचिमान्
रजनी न विना शशिना ललिता।
कुमुदं न विना रजनीं स्फुटितं
रविरेव ममास्तु सदा शरणम्॥४

क्षितिपा न विना रविणा रघवो
महितो न विना रघुभिश्च हरिः।
निहता न विना हरिणा दनुजा
रविरेव ममास्तु सदा शरणम्॥५

सुमनो न विना रविणा सुमनः
स्रगियं न विना सुमनो रचिता।
सुहृदां न विना स्रजमेव यशो
रविरेव ममास्तु सदा शरणम्॥६ 

नयने न विना रविणास्तु विभा
कविता न विना नयनं लिखिता।
कवयो न विना कवितां प्रथिता 
रविरेव ममास्तु सदा शरणम्॥७ 

न पयश्च विना रविणा भुवने
जलजं न विना पयसा सरसि।
अजलं ह्यसुमं भवतु क्व सरो
रविरेव ममास्तु सदा शरणम्॥८ 

जलजातविकासकलानिपुणस्
त्वमसि प्रियबन्धुररिस् तमसाम्।
उदयाचलनाथ सनाथमिमं
दिननाथ कुरुष्व सदा प्रणतम्॥९ 

इदमेव विनोक्तियुतं चरितं
सुविभातदिने मिहिरस्य मुदा। 
पठतां स्मरतामनुकूलतया
रविरस्तु सदा भवभूतिकरः॥१०

इति श्रीकुशाग्रकविविरचिते श्रीसूर्यसुप्रभाते विनोक्तिप्रभाताख्यं चतुर्थं प्रभातम्।

3 thought on “Sūrya Suprabhātam (Part 4)”

Leave a Reply

Your email address will not be published.

Related Post