Poetic Interdependence



“शशिना च निशा”-इतिवत्-

गुरुणा वटवो वटुभिश्च गुरुर्

गुरुणा वटुभिश्च विभाति कुलम्।

कलिभिर् भ्रमरा भ्रमरैश्च कलिः

कलिभिर् भ्रमरैश्च विभाति वनम्॥१

कविना रसिका रसिकैश्च कविः

कविना रसिकैश्च विभाति महः।

हरिणा च रमा रमया च हरिर्

हरिणा रमया च विभाति जगत्॥२

महः=उत्सवः

वणिजा द्रविणं द्रविणेन वणिक्

वणिजा द्रविणेन च भाति पुरः।

मसिना कलमः कलमेन मसिर्

मसिना कलमेन च भाति जनः॥३

धनुषा विशिखा विशिखैश्च धनुर्

धनुषा विशिखैश्च विभाति भटः।

भवता यदहं च मयैव भवान्

भवता च मया च विभाति गणः॥४

शशिना च शरच्छरदा च शशी

शशिना शरदा च विभाति निशा।

सुहृदा प्रणयः प्रणयेन सुहृत्

सुहृदा प्रणयेन च भाति सखा॥५

कलया निपुणो निपुणेन कला

कलया निपुणेन च भाति सभा।

कृपया विदुषां कृपया सुहृदां

कृपया हि गिरश्च विभामि सदा॥६

Leave a Reply

Your email address will not be published.

Related Post